bhavlingisant.com

सिद्ध भक्ति

—————————————

सिद्धा-नुद्भूत-कर्म-प्रकृति-समुदयान् साधितात्म स्वभावान्,
वन्दे सिद्धि – प्रसिद्धयै तदनुपम गुण प्रग्रहाकृष्टि – तुष्टः ।
सिद्धिः स्वात्मोपलब्धिः प्रगुण-गुण-गणोच्छादि-दोषापहाराद्,
योग्योपादान-युक्त्या दृषद् इह यथा हेम-भावोपलब्धिः ।।1 ।।
नाभावः सिद्धि-रिष्टा न निज-गुण-हतिस्तत् तपोभिर्न युक्तेः,
अस्त्यात्मानादि-बद्धः, स्व-कृतज-फल-भुक्-तत्-क्षयान्‌मोक्षभागी।
ज्ञाता दृष्टा स्वदेह – प्रमिति – रूपसमाहार – विस्तार – धर्मा,
ध्रौव्योत्पत्ति-व्ययात्मा स्व-गुण-युत-इतो नान्यथा साध्य-सिद्धिः ।।2।।
स त्वन्त-र्बाह्य – हेतु – प्रभव विमल सद्दर्शन – ज्ञान – चर्या,
संपद्धेति – प्रघात – क्षत दुरित – तया व्यञ्जिताचिन्त्य-सारैः ।
कैवल्यज्ञान – दृष्टि – प्रवर सुख – महावीर्य सम्यक्त्व-लब्धिः,
ज्योति-र्वातायनादि-स्थिर परम-गुणै-रद्भुतै-र्भासमानः ।।3 ।।
जानन् पश्यन् समस्तं सम-मनुपरतं संप्रतृप्यन् वितन्वन्,
धुन्वन् ध्वान्तं नितान्तं निचित-मनुपमं प्रीणयन्नीश भावम् ।
कुर्वन् सर्व-प्रजाना-मपर-मभिभवन् ज्योति-रात्मानमात्मा,
आत्मन्येवात्मनासौ क्षण-मुपजनयन्-सत्-स्वयंभूःप्रवृत्तः ॥4॥
छिन्दन् शेषानशेषान्-निगल-बल कलीं-स्तैरनन्त-स्वभावैः,
सूक्ष्मत्वाग्र्यावगाहागुरु – लघुक-गुणैः क्षायिकैः शोभमानः ।
अन्यै-श्चान्य-व्यपोह-प्रवण-विषय-संप्राप्ति-लब्धि-प्रभावै-
रूर्ध्व-व्रज्या स्वभावात् समय-मुपगतो धाम्नि संतिष्ठतेऽग्र्ये ।। 5 ।।
अन्याकाराप्ति हेतु र्न च भवति परो येन तेनाल्प-हीन:,
प्रागात्मोपात्तदेह प्रतिकृति रुचिराकार एव ह्यमूर्तः ।
क्षुत्-तृष्णा श्वास-कास-ज्वर-मरण-जरानिष्ट योग प्रमोहा,
व्यापत्त्याद्युग्र-दुःख- प्रभव-भव-हतेः कोऽस्य सौख्यस्य माता ॥6॥
आत्मोपादान-सिद्धं स्वय-मतिशय-वद्-वीत-बाधं विशालम्,
वृद्धि – ह्रास – व्यपेतं, विषय – विरहितं निः प्रतिद्वन्द-भावम् ।
अन्य-द्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्व – कालम्,
उत्कृष्टानन्त – सारं, परम-सुखमतस्तस्य सिद्धस्य जातम् ।।7 ।।
नार्थः क्षुत्-तृड्-विनाशाद्, विविध-रस-युतै-रन्न-पानै-रशुच्या,
नास्पृष्टै-र्गन्ध-माल्यै-नेहि मृदु – शयनै-र्ग्लानि-निद्राद्यभावात्।
आतंकार्ते रभावे तदुपशमन सभेषजानर्थतावद्,
दीपा-नर्थक्य-वद्वा व्यपगत-तिमिरे दृश्यमाने समस्ते ।।8 ॥
तादृक्-सम्पत्-समेता विविध-नय-तपः संयम-ज्ञान-दृष्टि-
चर्या-सिद्धाः समन्तात्, प्रवितत-यशसो विश्व-देवाधि-देवाः ।
भूता भव्या भवन्तः सकल-जगति ये स्तूयमाना विशिष्टैस्-,
तान् सर्वान् नौम्यनन्तान् निजिगमिषु-ररं तत्स्वरूपं त्रिसन्ध्यम् ॥१॥
कृत्वा कायोत्सर्गं, चतुरष्टदोष विरहितं सु परिशुद्धं।
अतिभक्ति संप्रयुक्तो, यो वन्दते सो लघु लभते परम सुखम् ।।

अंचलिका
इच्छामि भंते ! सिद्धभत्ति-काउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचरित्तजुत्ताणं, अङ- विह-कम्म – विप्प-मुक्काणं, अट्ट-गुण-सम्पण्णाणं, उडलोय – मत्थयम्मि पयट्ठियाणं, तव-सिद्धाणं, णय- सिद्धाणं, संजम-सिद्धाणं, चरित्त-सिद्धाणं, अतीता-णागद वट्टमाणकालत्तय – सिद्धाणं, सव्व सिद्धाणं, णिच्चकालं, अच्चेमि, पूजेमि, वन्दामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-सम्पत्ति होदु मज्झं ।
(इति श्री सिद्धभक्ति)

***********************************************************************************

श्री चैत्य भक्ति

—————————————

श्री गौतमादि-पद-मद्भुत-पुण्यबन्ध,
मुद्योतिताखिल ममौघ-मघ-प्रणाशम् ।
वक्ष्ये जिनेश्वरमहं प्रणिपत्य तथ्यं,
निर्वाण-कारण-मशेषजगद्धितार्थम् ।।
जयति भगवान् हेमाम्भोज – प्रचार – विजृम्भिता-
वमर कलुष मुकुटच्छायोगीर्ण प्रभा – परिचुम्बितौ ।
हृदया मानोद्धांताः परस्पर-वैरिणः,
विगत कलुषाः पादौ यस्य प्रपद्य विशश्वसुः॥1॥
तदनु जयति श्रेयान् धर्मः प्रवृद्ध-महोदयः,
कुगति-विपथ-क्लेशा-द्योसौ विपाशयति प्रजाः ।
परिणत-नयस्यांगी-भावाद् विविक्त-विकल्पितम्,
भवतु भवतस्त्रातृ त्रेधा जिनेन्द्र-वचोऽमृतम् ।।2।।
तदनु जयताज्जैनी वित्तिः प्रभंग-तरंगिणी,
प्रभव – विगम ध्रौव्य द्रव्य स्वभाव – विभाविनी।
निरुपम – सुखस्येदं द्वारं विघट्य निरर्गलम्,
विगत-रजसं मोक्षं देयान् निरत्यय-मव्ययम् ।।3।।
अर्हत्सिद्धाचार्योपाध्यायेभ्यस्तथा च साधुभ्यः,
सर्व-जगद्-वन्द्येभ्यो नमोऽस्तु सर्वत्र सर्वेभ्यः ।।4।।
मोहादि-सर्व-दोषारि-घातकेभ्यः सदा हत-रजोभ्यः,
विरहित-रहस्-कृतेभ्यः पूजार्हेभ्योः नमोऽर्हद्भ्यः ॥5॥
क्षांत्यार्जवादि गुण गण सुसाधनं सकल लोकहितहेतुम्।
शुभ धामनि धातारं वन्दे धर्मं जिनेन्द्रोक्तम् ।।6।।
मिथ्याज्ञान-तमोवृत-लोकैक-ज्योति-रमित-गमयोगि।
सांगोपांग मजेयं जैनं वचनं सदा वन्दे ।।7।।
भवन-विमान-ज्योतिर्व्यन्तर-नरलोक त्रिजग विश्व-चैत्यानि ।
त्रिजग – दभिवन्दितानां त्रेधा वन्दे जिनेन्द्राणाम् ।।8।।
भुवनत्रयेऽपि भुवनत्र – याधिपाभ्यर्च्य – तीर्थ – कर्तृणाम् ।
वन्दे भवाग्नि शान्त्यै विभवाना-मालयालीस्ताः ।।9 ।।
इति पञ्च-महापुरुषाः प्रणुता जिनधर्म-वचन-चैत्यानि ।
चैत्यालयाश्च विमलां दिशन्तु बोधिं बुध-जनेष्टाम् ॥10॥
अकृतानि कृतानि-चाप्रमेय-द्युतिमन्ति द्युतिमत्सु मन्दिरेषु ।
मनुजामर-पूजितानि वन्दे प्रतिबिम्बानि जगत्त्रये जिनानाम् ।।11।।
द्युति-मण्डल-भासुरांग-यष्टीः, प्रतिमा-ऽप्रतिमा जिनोत्तमानाम् ।
भुवनेषु विभूतये प्रवृत्ता, वपुषा प्राञ्जलिरस्मि वन्दमानः ।॥12॥
विगतायुध-विक्रिया-विभूषाः, प्रकृतिस्थाः कृतिनां जिनेश्वराणाम्।
प्रतिमाः प्रतिमा-गृहेषु कान्त्या ऽप्रतिमाः कल्मष-शान्तयेऽभिवन्दे॥13॥
कथयन्ति कषाय-मुक्ति-लक्ष्मीं, परया शान्ततया भवान्तकानाम् ।
प्रणमाम्यभिरूप-मूर्तिमन्ति, प्रतिरूपाणि विशुद्धये जिनानाम्।।14।।
यदिदं मम सिद्धभक्ति-नीतं, सुकृतं दुष्कृत-वर्त्म-रोधि तेन ।
पटुना जिनधर्म एव भक्ति-र्भव-ताज्जन्मनि जन्मनि स्थिरा मे॥15॥
अर्हतां सर्वभावानां दर्शन-ज्ञान-सम्पदाम् ।
कीर्तयिष्यामि चैत्यानि यथाबुद्धि विशुद्धये ॥16॥
श्रीमद्-भवन-वासस्था स्वयं भासुर मूर्तयः ।
वन्दिता नो विधेयासुः प्रतिमाः परमां गतिम् ।।17।।
यावन्ति सन्ति लोकेऽस्मिन्नकृतानि कृतानि च ।
तानि सर्वाणि चैत्यानि वन्दे भूयांसि भूतये ।।18।।
ये व्यन्तर – विमानेषु स्थेयांसः प्रतिमागृहाः ।
ते च संख्या-मतिक्रान्ताः सन्तु नो दोष-विच्छिदे ।।19।
ज्योतिषा-मथ लोकस्य भूतयेऽद्भुत-सम्पदः ।
गृहाः स्वयम्भुवः सन्ति विमानेषु नमामि तान् ।।20।।
वन्दे सुर किरीटाग्र – मणिच्छायाभिषेचनम् ।
याः क्रमेणैव सेवन्ते तदर्चाः सिद्धि-लब्धये ।।21।।
इति स्तुति पथातीत – श्रीभृता – मर्हतां मम ।
चैत्यानामस्तु संकीर्तिः सर्वास्रव-निरोधिनी ||22||
अर्हन्-महा-नदस्य-त्रिभुवन-भव्यजन-तीर्थ यात्रिक-दुरितम्।
प्रक्षालनैक-कारणमति-लौकिक-कुहक-तीर्थ-मुत्तम-तीर्थम्॥23॥
लोकालोक – सुतत्त्व – प्रत्यव बोधन समर्थ – दिव्यज्ञान ।
प्रत्यह-वहत्प्रवाहं व्रत-शीलामल-विशाल-कूल-द्वितयम् ।।24।।
शुक्लध्यान-स्तिमित स्थित-राज-द्राजहंस-राजित मसकृत्।
स्वाध्याय-मन्द्रघोषं नाना-गुण-समिति-गुप्ति-सिक्ता-सुभगम् ॥25॥
क्षान्त्यावर्त-सहस्रं सर्व-दया- विकच-कुसुम-विलसल्लतिकम् ।
दुःसह-परीषहाख्य-द्रुततर- रंग-त्तरंग-भङ्गुर-निकरम् ।।26 ।।
व्यपगत – कषाय – फेनं राग-द्वेषादि-दोष-शैवल-रहितम् ।
अत्यस्त-मोह-कर्दम-मतिदूर-निरस्त-मरण-मकर-प्रकरम् ॥27॥
ऋषि-वृषभ-स्तुतिः – मन्द्रोद्रेकित-निर्घोष-विविध-विहग-ध्वानम्।
विविध-तपोनिधि-पुलिनंसास्रव-संवरण-निर्जरा-निःस्रवणम्।।28 ।।
गणधर-चक्र-धरेन्द्र- प्रभृति – महा-भव्य-पुण्डरीकैः पुरुषः।
बहुभिःस्नातं भक्त्या कलि-कलुष-मलापकर्षणार्थ-ममेयम्।॥29॥
अवतीर्णवतःस्नातुं ममापि, दुस्तर-समस्त-दुरितं दूरम् ।
व्यपहरतु परम-पावन-मनन्य, जय्य-स्वभाव- भाव-गम्भीरम् ॥30॥
अताम्र – नयनोत्पलं सकल – कोप – वने – र्जयात्,
कटाक्ष शर – मोक्ष – हीन – मविकारतोद्रेकतः ।
विषाद मद हानितः प्रहसितायमानं सदा,
मुखं कथयतीव ते हृदय – शुद्धि – मात्यन्तिकीम् ॥31॥
निराभरण – भासुरं विगत राग – वेगोदयात्,
निरम्बर – मनोहरं प्रकृति रूप निर्दोषत : ।
निरायुध – सुनिर्भयं विगत – हिंस्य – हिंसा – क्रमात्,
निरामिष – सुतृप्ति – मद् – विविध-वेदनानां क्षयात् ।।32।।
मितस्थिति – नखांगजं गत – रजोमल – स्पर्शनम्,
नवाम्बुरुह – चन्दन – प्रतिम – दिव्य – गन्धोदयम् ।
रवीन्दु – कुलिशादि – दिव्य – बहु लक्षणालङ्कृतम्,
दिवाकर – सहस्र भासुर – मपीक्षणानां प्रियम् ॥33॥
हितार्थ – परिपन्थिभिः प्रबल – राग – मोहादिभिः,
कलंकित – मना जनो यदभि – वीक्ष्यशो शुद्धयते ।
सदाभिमुख मेव यज्जगति पश्यतां सर्वतः,
शरद् – विमल – चन्द्र – मण्डल – मिवोत्थितं दृश्यते ।।34।।
तदेत – दमरेश्वर – प्रचल – मौलि – माला-मणि,
स्फुरत् – किरण – चुम्बनीय – चरणारविन्द-द्वयम् ।
पुनातु भगवज्जिनेन्द्र तव रूप – मन्धीकृतम्,
जगत् – सकल – मन्यतीर्थ – गुरु – रूप – दोषोदयैः ।।35 ।।
(क्षेपक श्लोकाः)
मानस्तम्भाः सरांसि प्रविमलजल, सत्खातिका पुष्पवाटी,
प्राकारो नाट्यशाला द्वितयमुपवनं, वेदिकांत र्ध्वजाद्याः।
शालः कल्पद्रुमाणां सुपरिवृत्तवनं, स्तूपहर्त्यावली च,
प्राकारः स्फाटिकोन्त-नृसुर-मुनिसभा, पीठिकाग्रे स्वयं भूः॥1 ॥
वर्षेषु वर्षान्तर पर्वतेषु, नन्दीश्वरे यानि च मंदरेषु ।
यावन्ति चैत्यायतनानि लोके, सर्वाणि वन्दे जिनपुंगवानाम् ।।2 ।।
अवनितलगतानां कृत्रिमाऽकृत्रिमाणाम्,
वन-भवन-गतानां दिव्य वैमानिकानाम् ।
इह मनुज कृतानां देव राजार्चितानाम्,
जिनवर – निलयानां भावतोऽहं स्मरामि ॥3॥
जम्बू-धातकि-पुष्करार्ध-वसुधा-क्षेत्र-त्रये ये भवाश्,
चंद्राम्भोज शिखण्डि कण्ठ-कनक प्रावृंघनाभाजिनाः ।
सम्यग्ज्ञान – चरित्र – लक्षणधरा दग्धाष्ट-कर्मेन्धनाः,
भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो नमः ।॥4॥
श्री मन्मेरौ कुलाद्रौ, रजतगिरिवरे शाल्मली जम्बुवृक्षे,
वक्षारे चैत्यवृक्षे, रतिकर-रुचके कुण्डले मानुषांके ।
इष्वाकारेऽञ्जनाद्रौ, दधिमुखशिखरे व्यंतरे स्वर्गलोके,
ज्योतिर्लोकेऽभिवंदे, भुवनमहितले यानि चैत्यालयानि ।॥ 5॥
(बसन्ततिलकाछन्द)
देवा – सुरेन्द्र – नरनाग – समर्चितेभ्यः,
पाप-प्रणाशकर भव्य मनोहरेभ्यः ।
घंटा ध्वजादि परिवार विभूषितेभ्यो,
नित्यं नमो जगति सर्व जिनालयेभ्यः ।।6।।
(अञ्चलिका)
इच्छामि भंते ! चेइय- भत्ति काउस्सग्गो कओ तस्सालोचेउं । अहलोय – तिरियलोय – उडलोयम्मि, किट्टिमाकिट्टिमाणि जाणि जिणचेइयाणि ताणि सव्वाणि तीसु वि लोएसु भवणवासिय – वाणविंतर – जोइसिय कप्पवासियत्ति चउविहा देवा सपरिवारा दिव्वेण ण्हाणेण, दिव्वेण गंधेण, दिव्वेण अक्खेण, दिव्वेण पुप्फेण, दिव्वेण चुण्णेण, दिव्वेण दीवेण, दिव्वेण धूवेण, दिव्वेण वासेण, णिच्चकालं अच्चंति, पुज्जंति, वंदंति, णमंसंति अहमवि इह संतो तत्थ संताई सया णिच्चकालं अच्चेमि, पूजेमि, वंदामि,णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहि-मरणं, जिण-गुण-सम्पत्ति होउ-मज्झं।
(इति श्री चैत्य भक्तिः)

***********************************************************************************

श्रुत भक्ति

—————————————

स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि।
लोकालोकविलोक -नलोलितसल्लोकलोचनानि सदा॥१॥

अभिमुखनियमितबोधनमाभिनिबोधिकमनिन्द्रियेन्द्रियजम्।
बह्वाद्यवग्रहादिककृत-षट्त्रिंशत्-त्रिशत-भेदम्॥२॥

विविधर्द्धि-बुद्धि-कोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं।
संभिन्न-श्रोतृ-तया, सार्धं श्रुत-भाजनं वन्दे॥ ३॥

श्रुतमपि जिनवर-विहितं गणधररचितं द्व्यनेकभेदस्थम्।
अङ्गाङ्ग-बाह्य-भावित-मनन्त-विषयं नमस्यामि॥ ४॥

पर्यायाक्षर-पद-संघात-प्रतिपत्तिकानुयोग -विधीन्।
प्राभृतक-प्राभृतकं प्राभृतकं वस्तु-पूर्वं च॥ ५॥

तेषां समासतोऽपि च विंशतिभेदान् समश्नुवानं तत्।
वन्दे द्वादशधोक्तं गम्भीर-वर-शास्त्र-पद्धत्या॥ ६॥

आचारं सूत्रकृतं स्थानं समवाय-नामधेयं च।
व्याख्या-प्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने॥ ७॥

वन्देऽन्तकृद्दश-मनुत्तरोपपादिकदशं दशावस्थम्।
प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि॥ ८॥

परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते।
सार्द्धं चूलिकयापि च पञ्चविधं दृष्टिवादं च॥ ९॥

पूर्वगतं तु चतुर्दशधोदित-मुत्पादपूर्व-माद्यमहम्।
आग्रायणीय-मीडे पुरु-वीर्यानुप्रवादं च॥ १०॥

संततमहमभिवन्दे तथास्ति-नास्ति प्रवादपूर्वं च।
ज्ञानप्रवाद-सत्यप्रवाद-मात्मप्रवादं च॥ ११॥

कर्मप्रवाद-मीडेऽथ प्रत्याख्यान-नामधेयं च।
दशमं विद्याधारं पृथुविद्यानुप्रवादं च॥ १२॥

कल्याणनामधेयं प्राणावायं क्रियाविशालं च।
अथ लोकबिन्दुसारं वन्दे लोकाग्रसारपदम्॥ १३॥

दश च चतुर्दश चाष्टावष्टादश च द्वयो – र्द्विषट्कं च।
षोडश च विंशतिं च त्रिंशतमपि पञ्चदश च तथा॥१४॥

वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम्।
प्रतिवस्तु प्राभृतकानि विंशतिं विंशतिं नौमि॥१५॥

पूर्वान्तं ह्यपरान्तं ध्रुव-मध्रुव-च्यवन-लब्धि-नामानि।
अध्रुव-सम्प्रणिधिं चाप्यर्थं भौमावयाद्यं च॥ १६॥

सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालम्।
सिद्धि-मुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य॥ १७॥

पञ्चमवस्तु-चतुर्थ – प्राभृतकस्यानुयोगनामानि।
कृतिवेदने तथैव स्पर्शनकर्मप्रकृतिमेव ॥१८॥

बन्धन – निबन्धन – प्रक्रमानुपक्रम – मथाभ्युदय – मोक्षौ।
संक्रमलेश्ये च तथा लेश्याया: कर्मपरिणामौ॥ १९॥

सात-मसातं दीर्घं, ह्रस्वं भवधारणीय-सञ्ज्ञं च।
पुरुपुद्गलात्मनाम च, निधत्तमनिधत्तमभिनौमि॥ २०॥

सनिकाचितमनिकाचितमथकर्मस्थितिकपश्चिमस्कन्धौ।
अल्पबहुत्वं च यजे तद्द्वाराणां चतुर्विंशम्॥ २१॥

कोटीनां द्वादशशतमष्टापञ्चाशतं सहस्राणाम्।
लक्षत्र्यशीतिमेव च, पञ्च च वन्दे श्रुतपदानि॥ २२॥

षोडशशतं चतुस्त्रिंशत् कोटीनां त्र्यशीति-लक्षाणि।
शतसंख्याष्टासप्तति-, मष्टाशीतिं च पदवर्णान्॥ २३॥

सामायिकं चतुर्विंशति-स्तवं वन्दना प्रतिक्रमणम्।
वैनयिकं कृतिकर्म च, पृथुदशवैकालिकं च तथा॥ २४॥

वर-मुत्तराध्ययन-मपि, कल्पव्यवहार-मेव-मभिवन्दे।
कल्पाकल्पं स्तौमि, महाकल्पं पुण्डरीकं च॥ २५॥

परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामैव।
निपुणान्यशीतिकं च, प्रकीर्णकान्यङ्ग-बाह्यानि॥ २६॥

पुद्गल-मर्यादोक्तं, प्रत्यक्षं सप्रभेद-मवधिं च।
देशावधि-परमावधि-सर्वावधि-भेद-मभिवन्दे॥ २७॥

परमनसि स्थितमर्थं, मनसा परिविद्यमन्त्रिमहितगुणम्।
ऋजुविपुलमतिविकल्पं स्तौमि मन:पर्ययज्ञानम्॥ २८॥

क्षायिकमनन्तमेकं, त्रिकाल-सर्वार्थ-युगपदवभासम्।
सकल-सुख-धाम सततं, वन्देऽहं केवलज्ञानम्॥ २९॥

एवमभिष्टुवतो मे ज्ञानानि समस्त-लोक-चक्षूंषि।
लघु भवताञ्ज्ञानद्र्धिज्र्ञानफलं सौख्य-मच्यवनम्॥ ३०॥

अंचलिका
इच्छामि भंते ! सुदभत्ति-काउस्सग्गो कओ तस्सा-लोचेउं, अंगोवंग-पइण्णए-पाहुडय-परियम्म-सुत्त-पढमाणुओग-पुव्वगय-चूलिया चेव सुत्तत्थय-थुइ-धम्मकहाइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि,दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

पञ्च महागुरु भक्ति

—————————————

श्रीमदमरेन्द्र-मुकुट-प्रघटित-मणि-किरणवारि-धाराभि:।
प्रक्षालितपद-युगलान्, प्रणमामि जिनेश्वरान् भक्त्या॥ १॥

अष्टगुणै:समुपेतान्, प्रणष्ट-दुष्टाष्टकर्म-रिपुसमितीन्।
सिद्धान् सततमनन्तान्, नमस्करोमीष्ट तुष्टि संसिद्धयै॥ २॥

साचारश्रुतजलधीन्-,प्रतीर्यशुद्धोरुचरण-निरतानाम्।
आचार्याणां पदयुग-, कमलानि दधे शिरसि मेऽहम्॥ ३॥

मिथ्या – वादि – मद्रोग्र-ध्वान्त-प्रध्वंसि-वचन-संदर्भान्।
उपदेशकान् प्रपद्ये, मम दुरितारि-प्रणाशाय॥ ४॥

सम्यग्दर्शन – दीप – प्रकाशका – मेय-बोध-सम्भूता:।
भूरि-चरित्र-पताकास्, ते साधु-गणास्तु मां पान्तु॥ ५॥

जिन-सिद्ध-सूरि-देशक-,साधु-वरानमल गुण गणोपेतान्।
पञ्चनमस्कारपदैस् त्रिसन्ध्य-मभिनौमि मोक्षलाभाय॥ ६॥

एष पञ्चनमस्कार:, सर्व-पापप्रणाशन:।
मङ्गलानां च सर्वेषां, प्रथमं मंगलं भवेत् ॥७॥

अर्हत्सिद्धाचार्यो-पाध्याया: सर्वसाधव:।
कुर्वन्तु मङ्गला: सर्वे, निर्वाण-परमश्रियम् ॥ ८॥

सर्वान् जिनेन्द्र चन्द्रान्, सिद्धानाचार्य पाठकान् साधून्।
रत्नत्रयं च वन्दे रत्नत्रय-सिद्धये भक्त्या ॥ ९॥

पान्तु श्रीपाद-पद्मानि पञ्चानां परमेष्ठिनाम्।
लालितानि सुराधीश, चूडामणि मरीचिभि:॥ १०॥

प्रातिहार्यैर्जिनान् सिद्धान्, गुणै: सूरीन् स्वमातृभि:।
पाठकान् विनयै: साधून्, योगाङ्गै-रष्टभि: स्तुवे॥ ११॥

अंचलिका
इच्छामि भंते! पंचमहागुरु-भत्ति-काउस्सग्गो कओ तस्सालोचेउं, अट्ठ-महा-पाडिहेर-संजुत्ताणं अरहंताणं, अट्ठ-गुण-संपण्णाणं, उड्ढलोय मत्थयम्मि पइट्ठियाणं सिद्धाणं, अट्ठ-पवयण-माउया संजुत्ताणं आयरियाणं आयारादि सुदणाणोवदेसयाणं उवज्झायाणं, ति-रयण-गुण पालणरदाणं सव्वसाहूणं, णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो,सुगइ-गमणं, समाहि-मरणं, जिण-गुणसंपत्ति होउ मज्झं।

***********************************************************************************

शांति भक्ति

—————————————

न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा,
हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:।
अत्यन्त-स्फुरदुग्र – रश्मि -निकर,-व्याकीर्ण-भूमण्डलो,
ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥

क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो,
विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा।
तद्वत्ते चरणारुणाम्बुज-युगस्, – तोत्रोन्मुखानां नॄणां,
विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥

सन्तप्तोत्तम – काञ्चन – क्षितिधर, श्रीस्पद्र्धि-गौरद्युते,
पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्।
उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता,
नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥

त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्,
नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:।
को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्,
न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥

लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो!
नाना – रत्न – पिनद्ध – दण्ड-रुचिर-श्वेतात-पत्रत्रय।
त्वत्पाद-द्वय-पूत-गीत-रवत:, शीघ्रं द्रवन्त्यामया,
दर्पाध्मात्-मृगेन्द्रभीम निनदाद्, वन्या यथा कुञ्जरा:॥ ५॥

दिव्य-स्त्री नयनाभिराम-विपुल, श्रीमेरु-चूडामणे,
भास्वद् बाल दिवाकर-द्युति-हर-, प्राणीष्ट-भाण्डल।
अव्याबाध-मचिन्त्य-सार-मतुलं, त्यक्तोपमं शाश्वतं।
सौख्यं त्वच्चरणारविन्द-युगल-, स्तुत्यैव सम्प्राप्यते॥ ६॥

यावन्नोदयते प्रभा परिकर: श्रीभास्करो भासयंस्,
तावद् धारयतीह पङ्कज-वनं, निद्रातिभार-श्रमम्।
यावत्त्वच्चरणद्वयस्य भगवन्!, न स्यात् प्रसादोदयस् –
तावज्जीव-निकाय एष वहति प्रायेण पापं महत्॥ ७॥

शान्तिं शान्तिजिनेन्द्र-शान्तमनसस् त्वत्पाद-पद्माश्रयात्,
संप्राप्ता: पृथिवी-तलेषु बहव: शान्त्यर्थिन: प्राणिन:।
कारुण्यान् मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु ,
त्वत्पादद्वय-दैवतस्य गदत: शान्त्यष्टकं भक्तित:॥ ८॥

शान्तिजिनं शशि-निर्मल-वक्त्रं,शीलगुण-व्रतसंयमपात्रम्।
अष्टशतार्चित लक्षणगात्रं, नौमि जिनोत्तममम्बुज नेत्रम्॥ ९॥

पञ्चममीप्सित-चक्रधराणां, पूजितमिन्द्र-नरेन्द्रगणैश्च।
शान्तिकरं गणशान्तिमभीप्सु: षोडशतीर्थकरं प्रणमामि॥ १०॥

दिव्यतरु : सुर-पुष्प-सुवृष्टि, – र्दुन्दुभिरासन-योजन-घोषौ।
आतपवारणचामरयुग्मे,यस्य विभाति च मण्डलतेज:॥ ११॥

तं जगदर्चित-शान्ति-जिनेन्द्रं, शान्तिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शान्तिं, मह्यमरं पठते परमां च॥ १२॥

येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नै:,
शक्रादिभि: सुरगणै: स्तुत-पादपद्मा:।
ते मे जिना: प्रवर-वंश-जगत्प्रदीपास्,
तीर्थङ्करा: सतत शान्तिकरा भवन्तु॥१३॥

सम्पूजकानां प्रतिपालकानां यतीन्द्र-सामान्य-तपोधनानाम्।
देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतु शान्तिं भगवान् जिनेन्द्र:॥१४॥

क्षेमं सर्वप्रजानां, प्रभवतु बलवान्, धार्मिको भूमिपाल:,
काले काले च सम्यग्, वितरतु मघवा, व्याध्यो यान्तु नाशम्।
दुर्भिक्षं चोरिमारि:, क्षणमपि जगतां, मास्मभूज्जीव-लोके,
जैनेन्दंर धर्मचक्रं, प्रभवतु सततं, सर्व-सौख्य-प्रदायि॥ १५॥

तद् द्रव्य मव्ययमुदेतु शुभ:स देश:,
संतन्यतां प्रतपतां सततं सकाल:।
भाव: स नन्दतु सदा यद्नुग्रहेण,
रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे॥ १६॥

प्रध्वस्त घाति कर्माण:, केवल-ज्ञानभास्करा: ।
कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वरा:॥ १७॥

अंचलिका
इच्छामि भंते! संतिभत्ति-काउस्सग्गो कओ, तस्सालोचेउं, पञ्च-महा-कल्लाण-संपण्णाणं अट्ठ-महापाडिहेर-सहियाणंचउतीसातिसय-विसेस-संजुत्ताणं, बत्तीस-देवेंद-मणिमय-मउड-मत्थय-महियाणं बलदेव-वासुदेव चक्कहर-रिसि-मुणि-जदि-अणगारोवगूढाणं, थुइ-सय-सहस्स-णिलयाणं,उसहाइ-वीर-पच्छिम-मंगल-महापुरिसाणं णिच्चकालं,अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

समाधी भक्ति

—————————————

स्वात्माभिमुख-संवित्ति, लक्षणं श्रुत-चक्षुषा।
पश्यन्पश्यामि देव त्वां केवलज्ञान-चक्षुषा॥
शास्त्राभ्यासो, जिनपति-नुति: सङ्गति सर्वदार्यै:।
सद्वृत्तानां,गुणगण-कथा,दोषवादे च मौनम्॥ १॥

सर्वस्यापि प्रिय-हित-वचो भावना चात्मतत्त्वे।
संपद्यन्तां, मम भव-भवे यावदेतेऽपवर्ग:॥ २॥

जैनमार्ग-रुचिरन्यमार्ग निर्वेगता, जिनगुण-स्तुतौ मति:।
निष्कलंक विमलोक्ति भावना: संभवन्तु मम जन्मजन्मनि॥ ३॥

गुरुमूले यति-निचिते, – चैत्यसिद्धान्त वार्धिसद्घोषे।
मम भवतु जन्मजन्मनि,सन्यसनसमन्वितं मरणम्॥ ४॥

जन्म जन्म कृतं पापं, जन्मकोटि समार्जितम्।
जन्म मृत्यु जरा मूलं, हन्यते जिनवन्दनात्॥ ५॥

आबाल्याज्जिनदेवदेव! भवत:, श्रीपादयो: सेवया,
सेवासक्त-विनेयकल्प-लतया,कालोऽद्यया-वद्गत:।
त्वां तस्या: फलमर्थये तदधुना, प्राणप्रयाणक्षणे,
त्वन्नाम-प्रतिबद्ध-वर्णपठने,कण्ठोऽस्त्व-कुण्ठो मम॥ ६॥

तवपादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद् यावन्निर्वाण-संप्राप्ति:॥ ७॥

एकापि समर्थेयं, जिनभक्ति र्दुर्गतिं निवारयितुम्।
पुण्यानि च पूरयितुं, दातुं मुक्तिश्रियं कृतिन:॥ ८॥

पञ्च अरिंजयणामे पञ्च य मदि-सायरे जिणे वंदे।
पञ्च जसोयरणामे, पञ्च य सीमंदरे वंदे॥ ९॥

रयणत्तयं च वन्दे, चउवीस जिणे च सव्वदा वन्दे।
पञ्चगुरूणां वन्दे, चारणचरणं सदा वन्दे॥ १०॥

अर्हमित्यक्षरं ब्रह्म, – वाचकं परमेष्ठिन:।
सिद्धचक्रस्य सद्बीजं, सर्वत: प्रणिदध्महे॥ ११॥

कर्माष्टक-विनिर्मुक्तं, मोक्षलक्ष्मी-निकेतनम्।
सम्यक्त्वादि गुणोपेतं, सिद्धचक्रं नमाम्यहम्॥ १२॥

आकृष्टिं सुरसम्पदां विदधते, मुक्तिश्रियो वश्यता-,
मुच्चाटं विपदां चतुर्गतिभुवां विद्वेषमात्मैनसाम्।
स्तम्भं दुर्गमनं प्रति-प्रयततो, मोहस्य सम्मोहनम्,
पायात्पञ्च-नमस्क्रियाक्षरमयी,साराधना देवता॥ १३॥

अनन्तानन्त संसार, – संततिच्छेद-कारणम्।
जिनराज-पदाम्भोज, स्मरणं शरणं मम॥ १४॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष जिनेश्वर!॥ १५॥

नहित्राता नहित्राता नहित्राता जगत्त्रये।
वीतरागात्परो देवो, न भूतो न भविष्यति॥ १६॥

जिनेभक्ति-र्जिनेभक्ति-, र्जिनेभक्ति-र्दिने दिने।
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे॥ १७॥

याचेऽहं याचेऽहं, जिन! तव चरणारविन्दयोर्भक्तिम्।
याचेऽहं याचेऽहं, पुनरपि तामेव तामेव॥ १८॥

विघ्नौघा: प्रलयं यान्ति, शाकिनी-भूत पन्नगा:।
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ॥१९॥

अंचलिका

इच्छामि भंते! समाहिभत्ति काउस्सग्गो कओ, तस्सालोचेउं, रयणत्तय-सरूवपरमप्पज्झाणलक्खणं समाहि-भत्तीये णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं समाहि-मरणं जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

Scroll to Top