bhavlingisant.com

सिद्ध भक्ति

—————————————

सिद्धा-नुद्भूत-कर्म-प्रकृति-समुदयान् साधितात्म स्वभावान्,
वन्दे सिद्धि – प्रसिद्धयै तदनुपम गुण प्रग्रहाकृष्टि – तुष्टः ।
सिद्धिः स्वात्मोपलब्धिः प्रगुण-गुण-गणोच्छादि-दोषापहाराद्,
योग्योपादान-युक्त्या दृषद् इह यथा हेम-भावोपलब्धिः ।।1 ।।
नाभावः सिद्धि-रिष्टा न निज-गुण-हतिस्तत् तपोभिर्न युक्तेः,
अस्त्यात्मानादि-बद्धः, स्व-कृतज-फल-भुक्-तत्-क्षयान्‌मोक्षभागी।
ज्ञाता दृष्टा स्वदेह – प्रमिति – रूपसमाहार – विस्तार – धर्मा,
ध्रौव्योत्पत्ति-व्ययात्मा स्व-गुण-युत-इतो नान्यथा साध्य-सिद्धिः ।।2।।
स त्वन्त-र्बाह्य – हेतु – प्रभव विमल सद्दर्शन – ज्ञान – चर्या,
संपद्धेति – प्रघात – क्षत दुरित – तया व्यञ्जिताचिन्त्य-सारैः ।
कैवल्यज्ञान – दृष्टि – प्रवर सुख – महावीर्य सम्यक्त्व-लब्धिः,
ज्योति-र्वातायनादि-स्थिर परम-गुणै-रद्भुतै-र्भासमानः ।।3 ।।
जानन् पश्यन् समस्तं सम-मनुपरतं संप्रतृप्यन् वितन्वन्,
धुन्वन् ध्वान्तं नितान्तं निचित-मनुपमं प्रीणयन्नीश भावम् ।
कुर्वन् सर्व-प्रजाना-मपर-मभिभवन् ज्योति-रात्मानमात्मा,
आत्मन्येवात्मनासौ क्षण-मुपजनयन्-सत्-स्वयंभूःप्रवृत्तः ॥4॥
छिन्दन् शेषानशेषान्-निगल-बल कलीं-स्तैरनन्त-स्वभावैः,
सूक्ष्मत्वाग्र्यावगाहागुरु – लघुक-गुणैः क्षायिकैः शोभमानः ।
अन्यै-श्चान्य-व्यपोह-प्रवण-विषय-संप्राप्ति-लब्धि-प्रभावै-
रूर्ध्व-व्रज्या स्वभावात् समय-मुपगतो धाम्नि संतिष्ठतेऽग्र्ये ।। 5 ।।
अन्याकाराप्ति हेतु र्न च भवति परो येन तेनाल्प-हीन:,
प्रागात्मोपात्तदेह प्रतिकृति रुचिराकार एव ह्यमूर्तः ।
क्षुत्-तृष्णा श्वास-कास-ज्वर-मरण-जरानिष्ट योग प्रमोहा,
व्यापत्त्याद्युग्र-दुःख- प्रभव-भव-हतेः कोऽस्य सौख्यस्य माता ॥6॥
आत्मोपादान-सिद्धं स्वय-मतिशय-वद्-वीत-बाधं विशालम्,
वृद्धि – ह्रास – व्यपेतं, विषय – विरहितं निः प्रतिद्वन्द-भावम् ।
अन्य-द्रव्यानपेक्षं निरुपमममितं शाश्वतं सर्व – कालम्,
उत्कृष्टानन्त – सारं, परम-सुखमतस्तस्य सिद्धस्य जातम् ।।7 ।।
नार्थः क्षुत्-तृड्-विनाशाद्, विविध-रस-युतै-रन्न-पानै-रशुच्या,
नास्पृष्टै-र्गन्ध-माल्यै-नेहि मृदु – शयनै-र्ग्लानि-निद्राद्यभावात्।
आतंकार्ते रभावे तदुपशमन सभेषजानर्थतावद्,
दीपा-नर्थक्य-वद्वा व्यपगत-तिमिरे दृश्यमाने समस्ते ।।8 ॥
तादृक्-सम्पत्-समेता विविध-नय-तपः संयम-ज्ञान-दृष्टि-
चर्या-सिद्धाः समन्तात्, प्रवितत-यशसो विश्व-देवाधि-देवाः ।
भूता भव्या भवन्तः सकल-जगति ये स्तूयमाना विशिष्टैस्-,
तान् सर्वान् नौम्यनन्तान् निजिगमिषु-ररं तत्स्वरूपं त्रिसन्ध्यम् ॥१॥
कृत्वा कायोत्सर्गं, चतुरष्टदोष विरहितं सु परिशुद्धं।
अतिभक्ति संप्रयुक्तो, यो वन्दते सो लघु लभते परम सुखम् ।।

अंचलिका
इच्छामि भंते ! सिद्धभत्ति-काउस्सग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचरित्तजुत्ताणं, अङ- विह-कम्म – विप्प-मुक्काणं, अट्ट-गुण-सम्पण्णाणं, उडलोय – मत्थयम्मि पयट्ठियाणं, तव-सिद्धाणं, णय- सिद्धाणं, संजम-सिद्धाणं, चरित्त-सिद्धाणं, अतीता-णागद वट्टमाणकालत्तय – सिद्धाणं, सव्व सिद्धाणं, णिच्चकालं, अच्चेमि, पूजेमि, वन्दामि, णमस्सामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, समाहि-मरणं, जिण-गुण-सम्पत्ति होदु मज्झं ।
(इति श्री सिद्धभक्ति)

***********************************************************************************

श्रुत भक्ति

—————————————

स्तोष्ये संज्ञानानि परोक्षप्रत्यक्षभेदभिन्नानि।
लोकालोकविलोक -नलोलितसल्लोकलोचनानि सदा॥१॥

अभिमुखनियमितबोधनमाभिनिबोधिकमनिन्द्रियेन्द्रियजम्।
बह्वाद्यवग्रहादिककृत-षट्त्रिंशत्-त्रिशत-भेदम्॥२॥

विविधर्द्धि-बुद्धि-कोष्ठस्फुटबीजपदानुसारिबुद्ध्यधिकं।
संभिन्न-श्रोतृ-तया, सार्धं श्रुत-भाजनं वन्दे॥ ३॥

श्रुतमपि जिनवर-विहितं गणधररचितं द्व्यनेकभेदस्थम्।
अङ्गाङ्ग-बाह्य-भावित-मनन्त-विषयं नमस्यामि॥ ४॥

पर्यायाक्षर-पद-संघात-प्रतिपत्तिकानुयोग -विधीन्।
प्राभृतक-प्राभृतकं प्राभृतकं वस्तु-पूर्वं च॥ ५॥

तेषां समासतोऽपि च विंशतिभेदान् समश्नुवानं तत्।
वन्दे द्वादशधोक्तं गम्भीर-वर-शास्त्र-पद्धत्या॥ ६॥

आचारं सूत्रकृतं स्थानं समवाय-नामधेयं च।
व्याख्या-प्रज्ञप्तिं च ज्ञातृकथोपासकाध्ययने॥ ७॥

वन्देऽन्तकृद्दश-मनुत्तरोपपादिकदशं दशावस्थम्।
प्रश्नव्याकरणं हि विपाकसूत्रं च विनमामि॥ ८॥

परिकर्म च सूत्रं च स्तौमि प्रथमानुयोगपूर्वगते।
सार्द्धं चूलिकयापि च पञ्चविधं दृष्टिवादं च॥ ९॥

पूर्वगतं तु चतुर्दशधोदित-मुत्पादपूर्व-माद्यमहम्।
आग्रायणीय-मीडे पुरु-वीर्यानुप्रवादं च॥ १०॥

संततमहमभिवन्दे तथास्ति-नास्ति प्रवादपूर्वं च।
ज्ञानप्रवाद-सत्यप्रवाद-मात्मप्रवादं च॥ ११॥

कर्मप्रवाद-मीडेऽथ प्रत्याख्यान-नामधेयं च।
दशमं विद्याधारं पृथुविद्यानुप्रवादं च॥ १२॥

कल्याणनामधेयं प्राणावायं क्रियाविशालं च।
अथ लोकबिन्दुसारं वन्दे लोकाग्रसारपदम्॥ १३॥

दश च चतुर्दश चाष्टावष्टादश च द्वयो – र्द्विषट्कं च।
षोडश च विंशतिं च त्रिंशतमपि पञ्चदश च तथा॥१४॥

वस्तूनि दश दशान्येष्वनुपूर्वं भाषितानि पूर्वाणाम्।
प्रतिवस्तु प्राभृतकानि विंशतिं विंशतिं नौमि॥१५॥

पूर्वान्तं ह्यपरान्तं ध्रुव-मध्रुव-च्यवन-लब्धि-नामानि।
अध्रुव-सम्प्रणिधिं चाप्यर्थं भौमावयाद्यं च॥ १६॥

सर्वार्थकल्पनीयं ज्ञानमतीतं त्वनागतं कालम्।
सिद्धि-मुपाध्यं च तथा चतुर्दशवस्तूनि द्वितीयस्य॥ १७॥

पञ्चमवस्तु-चतुर्थ – प्राभृतकस्यानुयोगनामानि।
कृतिवेदने तथैव स्पर्शनकर्मप्रकृतिमेव ॥१८॥

बन्धन – निबन्धन – प्रक्रमानुपक्रम – मथाभ्युदय – मोक्षौ।
संक्रमलेश्ये च तथा लेश्याया: कर्मपरिणामौ॥ १९॥

सात-मसातं दीर्घं, ह्रस्वं भवधारणीय-सञ्ज्ञं च।
पुरुपुद्गलात्मनाम च, निधत्तमनिधत्तमभिनौमि॥ २०॥

सनिकाचितमनिकाचितमथकर्मस्थितिकपश्चिमस्कन्धौ।
अल्पबहुत्वं च यजे तद्द्वाराणां चतुर्विंशम्॥ २१॥

कोटीनां द्वादशशतमष्टापञ्चाशतं सहस्राणाम्।
लक्षत्र्यशीतिमेव च, पञ्च च वन्दे श्रुतपदानि॥ २२॥

षोडशशतं चतुस्त्रिंशत् कोटीनां त्र्यशीति-लक्षाणि।
शतसंख्याष्टासप्तति-, मष्टाशीतिं च पदवर्णान्॥ २३॥

सामायिकं चतुर्विंशति-स्तवं वन्दना प्रतिक्रमणम्।
वैनयिकं कृतिकर्म च, पृथुदशवैकालिकं च तथा॥ २४॥

वर-मुत्तराध्ययन-मपि, कल्पव्यवहार-मेव-मभिवन्दे।
कल्पाकल्पं स्तौमि, महाकल्पं पुण्डरीकं च॥ २५॥

परिपाट्या प्रणिपतितोऽस्म्यहं महापुण्डरीकनामैव।
निपुणान्यशीतिकं च, प्रकीर्णकान्यङ्ग-बाह्यानि॥ २६॥

पुद्गल-मर्यादोक्तं, प्रत्यक्षं सप्रभेद-मवधिं च।
देशावधि-परमावधि-सर्वावधि-भेद-मभिवन्दे॥ २७॥

परमनसि स्थितमर्थं, मनसा परिविद्यमन्त्रिमहितगुणम्।
ऋजुविपुलमतिविकल्पं स्तौमि मन:पर्ययज्ञानम्॥ २८॥

क्षायिकमनन्तमेकं, त्रिकाल-सर्वार्थ-युगपदवभासम्।
सकल-सुख-धाम सततं, वन्देऽहं केवलज्ञानम्॥ २९॥

एवमभिष्टुवतो मे ज्ञानानि समस्त-लोक-चक्षूंषि।
लघु भवताञ्ज्ञानद्र्धिज्र्ञानफलं सौख्य-मच्यवनम्॥ ३०॥

अंचलिका
इच्छामि भंते ! सुदभत्ति-काउस्सग्गो कओ तस्सा-लोचेउं, अंगोवंग-पइण्णए-पाहुडय-परियम्म-सुत्त-पढमाणुओग-पुव्वगय-चूलिया चेव सुत्तत्थय-थुइ-धम्मकहाइयं णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि,दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

 चारित्र भक्ति

—————————————

येनेन्द्रान् भुवन-त्रयस्य विलसत्,-केयूर-हाराङ्गदान्,
भास्वन्-मौलि-मणिप्रभा-प्रविसरोत्-तुङ्गोत्तमाङ्गान्नतान्।
स्वेषां पाद-पयोरुहेषु मुनयश्, चक्रु: प्रकामं सदा,
वन्दे पञ्चतयं तमद्य निगदन्,-नाचार-मभ्यर्चितम्॥ १॥

अर्थ-व्यञ्जन-तद्द्वया-विकलता,- कालोपधा-प्रश्रया:,
स्वाचार्याद्यनपह्नवो बहु-मतिश्, चेत्यष्टधा व्याहृतम्।
श्रीमज्ज्ञाति-कुलेन्दुना भगवता, तीर्थस्य कत्र्राऽञ्जसा,
ज्ञानाचार-महं त्रिधा प्रणिपता,-म्युद्धूतये कर्मणाम्॥ २॥

शङ्का-दृष्टि-विमोह-काङ्क्षणविधि,व्यावृत्ति-सन्नद्धतां,
वात्सल्यं विचिकित्सना-दुपरतिं, धर्मोपबृंह-क्रियाम्।
शक्त्या शासन-दीपनं हित-पथाद्, भ्रष्टस्य संस्थापनं,
वन्दे दर्शन-गोचरं सुचरितं, मूध्र्ना नमन्नादरात्॥ ३॥

एकान्ते शयनोपवेशन-कृति:, संतापनं तानवं,
संख्या-वृत्ति-निबन्धना-मनशनं, विष्वाण-मद्र्धोदरम्।
त्यागं चेन्द्रिय-दन्तिनो मदयत:, स्वादो रसस्यानिशं,
षोढ़ा बाह्यमहं स्तुवे शिवगति,- प्राप्त्यभ्युपायं तप:॥ ४॥

स्वाध्याय: शुभकर्मणश्च्युतवत: संप्रत्यवस्थापनं,
ध्यानं व्यापृति-रामया-विनि गुरौ, वृद्धे च बाले यतौ।
कायोत्सर्जन सत्क्रिया, विनय-इत्येवं तप: षड्विधं,
वन्देऽभ्यन्तर-मन्तरङ्ग बलवद्, – विद्वेषि विध्वंसनम्॥ ५॥

सम्यग्ज्ञान विलोचनस्य दधत: श्रद्धान-मर्हन्मते,
वीर्यस्या-विनि-गूहनेन तपसि, स्वस्य प्रयत्नाद्यते:।
या वृत्तिस्तरणीव नौ-रविवरा, लध्वी भवोदन्वतो,
वीर्याचारमहं तमूर्जितगुणं, वन्दे सता-मर्चितम्॥ ६॥

तिस्र: सत्तम-गुप्तयस्तनुमनो, भाषानिमित्तोदया:,
पञ्चेर्यादि-समाश्रया: समितय:, पञ्चव्रतानीत्यपि।
चारित्रोपहितं त्रयोदशतयं पूर्वं न दृष्टं परै-
राचारं परमेष्ठिनो जिनपतेर्, वीरं नमामो वयम् ॥ ७॥

आचारं सह-पञ्चभेद-मुदितं, तीर्थं परं मङ्गलं,
निर्ग्रन्थानपि सच्चरित्र-महतो, वन्दे समग्रान्यतीन्।
आत्माधीन सुखोदया मनुपमां लक्ष्मी-मविध्वंसिनीं,
इच्छन्केवलदर्शना-वगमन,प्राज्य-प्रकाशोज्ज्वलाम्॥ ८॥

अज्ञा-नाद्य-दवीवृतं नियमिनोऽ, वर्तिष्यहं चान्यथा,
तस्मिन् नर्जित-मस्यति प्रतिनवं, चैनो निराकुर्वति।
वृत्ते सप्ततयीं निधिं सुतपसा-मृद्धिं नयत्यद्भुतं,
तन्मिथ्या गुरुदुष्कृतं भवतु मे, स्वं निन्दतो निन्दितम्॥ ९॥

संसार-व्यसना-हति-प्रचलिता, नित्योदय-प्रार्थिन:,
प्रत्यासन्न-विमुक्तय: सुमतय:, शान्तैनस: प्राणिन:।
मोक्षस्यैव कृतं विशालमतुलं सोपान-मुच्चैस्तरा,
मारोहन्तु चरित्र-मुत्तम-मिदं, जैनेन्द्र-मोजस्विन:॥ १०॥

अंचलिका

इच्छामि भंते! चारित्तभत्ति काउस्सग्गो कओ, तस्स आलोचेउं सम्म-णाणजोयस्स सम्मत्ताहि-ट्ठियस्स, सव्वपहाणस्स, णिव्वाण-मग्गस्स, कम्मणिज्जरफलस्स, खमाहारस्स, पञ्चमहव्वयसंपण्णस्स, तिगुत्ति-गुत्तस्स, पञ्चसमिदिजुत्तस्स, णाणज्झाण साहणस्स, समया इव पवेसयस्स सम्मचारित्तस्स णिच्चकालं, अंचेमि, पूजेमि, वंदामि,णमंसामि, दुक्खक्खओ कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं, जिणगुणसंपत्ति होउ मज्झं।

***********************************************************************************

चारित्रालोचना

—————————————

इच्छामि भंते ! अट्ठमियम्मि आलोचेउं अट्ठण्हं दिवसाणं, अट्ठण्हं राइणं, अब्भंतरदो पंचविहो आयारो णाणायारो, दंसणाचारो, तवायारो, वीरियाचारो चरित्तायारो चेदि ।
तत्थ णाणायारो अट्ठविहो काले, विणए, उवहाणे, बहुमाणे, तहेव अणिण्हवणे, विंजण-अत्थतदुभये चेदि ।

णाणायारो – अट्ठविहो परिहाविदो, से अक्खरहीणं वा, सरहीणं वा, विंजणहीणं वा, पदहीणं वा, अत्थ-हीणं वा, गंथ-हीणं वा, थएसु वा, थुइसु वा, अत्थक्खाणेसु वा, अणियोगेसु वा, अणियोगद्दारेसु वा, अकाले-सज्झाओ कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो, काले वा, परिहाविदो, अच्छा- कारिदं वा, मिच्छा-मेलिदं वा, आ-मेलिदं, वा मेलिदं, अण्हादिण्णं, अण्णहा-पडिच्छिदं, आवास-एसु-परिहीणदाए तस्स मिच्छा मे दुक्कडं ।।1।।

णिस्संकिय णिकंक्खिय णिव्विदिगिंच्छा अमूढदिठ्ठि या|
उवगृहण ठिदिकरणं वच्छल्ल – पहावणा चेदि ।।
दंसणायारो अट्ठविहो परिहाविदो संकाए, कंखाए, विदिगिंछाए, अण्ण दिट्ठी – पसंसणाए, परपाखंड- पसंसणाए, अणायदण-सेवणाए, अवच्छल्लदाए, अपहावणाए तस्स मिच्छा मे दुक्कडं ।।2 ।।

तवायारो बारसविहो अब्भतरो छव्विहो, बाहिरो- छव्विहो चेदि । तत्थ बाहिरो अणसणं, आमोदरियं, वित्ति- परिसंख्या, रस-परिच्चाओ, सरीरपरिच्चाओ, विविक्त- सयणासणं चेदि। तत्थ अब्भतरो पायच्छितं, विणओ, वेज्जावच्चं, सज्झाओ, झाणं विउस्सग्गो चेदि। अब्भंतरं- बाहिरं-बारसविहं-तवोकम्मं ण कदं, णिसण्णेण पडिक्कंतं तस्स मिच्छा मे दुक्कडं ॥3 ॥

वीरियायारो पंचविहो परिहाविदो वर-वीरिय- परिक्कमेण जहुत्त-माणेण, बलेण, वीरिएण, परिक्कमेण णिगूहियं, तवो-कम्मं ण कदं, णिसण्णेण पडिक्कंतं तस्स मिच्छा मे दुक्कडं ।।4 ।।

चरित्तायारो तेरसविहो परिहाविदो पंचमहव्वदाणि, पंचसमिदीओ, तिगुत्तीओ चेदि । तत्थ पढमे महव्वदे पाणादिवादादो वेरमणं से पुढविकाइया – जीवा असंखेज्जासंखेज्जा, आउ काइया जीवा असंखेज्जासंखेज्जा, तेउ काझ्या जीवा असंखेज्जासंखेज्जा, वाउ काझ्या जीवा असंखेज्जासंखेज्जा, वणप्फदिकाइया जीवा अणंताणंता हरिया, बीआ, अंकुरा, छिण्णा, भिण्णा, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।

बे-इन्दियाजीवा असंखेज्जासंखेज्जा, कुक्खि, किमि, संख, खुल्लय-वराडय-अक्ख-रिट्ठय-गण्डवाल, संबुक्क, सिप्पि, पुलविकाइया एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।

ते-इन्दिया जीवा असंखेज्जासंखेज्जा, कुन्थूद्देहियविंच्छिय – गोभिंद-गोजुव-मक्कुण-पिपीलियाइया, एदेसिं उद्दावणं, परिदावणं, विराहणं उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।

चउरिंदिया – जीवा असंखेज्जासंखेज्जा, दंसमसय- मक्खि- पयंग-कीड-भमर-महुयर-गोमच्छियाइया, एदेसिं उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।

पंचिंदियाजीवा असंखेज्जासंखेज्जा अंडाइया, पोदाड्या, जराइया, रसाइया, संसेदिमा, सम्मुच्छिमा, उब्भेदिमा, उववादिमा, अवि – चउरासीदि – जोणि – पमुहसद – सहस्सेसु एदेसिं, उद्दावणं, परिदावणं, विराहणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे
दुक्कडं । । 1 ।।

अहावरे दुव्वे महव्वदे मुसावादादो वेरमणं से कोहेण वा, माणेण वा, मायाए वा, लोहेण वा, राएण वा, दोसेण वा, मोहेण वा, हस्सेण वा, भयेण वा, पदोसेण वा, पमादेण वा, पेम्मेण वा, पिवासेण वा, लज्जेण वा, गारवेण वा, अणादरेण वा, केण-वि-कारणेण जादेण वा, सव्वो मुसावादो भासिओ, भासाविओ, भासिज्जंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।2 ।।

अहावरे तव्वे महव्वदे अदिण्णा-दाणादो वेरमणं से गामे वा, णयरे वा, खेडे वा, कव्वडे वा, मंडवे वा, मंडले वा, पट्टणे वा, दोणमुहे वा, घोसे वा, आसमे वा, सहाए वा, संवाहे वा, सण्णिवेसे वा, तिण्हं वा, कटुं वा, वियडिं वा, मणिं वा, एवमाइयं अदिण्णं गिण्हियं, गेण्हावियं, गेण्हिज्जंतं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।३ ।।

अहावरे चउत्थे महव्वदे मेहुणादो वेरमणं से देविएसु वा, माणुसिएसु वा, तेरिच्छिएसु वा, अचेयणिएसु वा, मणुण्णामणुण्णेसु रूवेसु, मणुण्णामणुण्णेसु सद्देसु, मणुण्णामणुण्णेसु गंधेसु, मणुण्णामणुण्णेसु रसेसु, मणुण्णामणुण्णेसु फासेसु, चक्खिदिय-परिणामे, सोर्दिदिय- परिणामे, घाणिंदिय परिणामे, जिब्भिंदिय – परिणामे, फासिंदिय-परिणामे, णो- इंदिय-परिणामे, अगुत्तेण अगुत्तिंदिएण, णवविहं बंभचरियं, ण रक्खियं, ण रक्खावियं, ण रक्खिज्जंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।4 ।।

अहावरे पंचमे महव्वदे परिग्गहादो वेरमणं सो वि परिग्ग्हो दुविहो अब्भतरो बाहिरो चेदि । तत्थ अब्धंतरो परिग्गहो णाणावरणीयं, दंसणावरणीयं, वेयणीयं, मोहणीयं, आउग्गां, णामं, गोदं, अंतरायं चेदि अट्ठविहो । तत्थ बाहिरो परिग्गहो उवयरण – भंड- फलह- पीढ – कमण्डलु – संथार-सेज्ज-उवसेज्ज-भत्त-पाणादि-भेदेण अणेय विहो, एदेण परिग्गहेण अडविहं कम्मरयं बद्धं, बद्धावियं, बज्झन्तं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।5 ।।

अहावरे छड्डे अणुव्वदे राइ-भोयणादो वेरमणं से असणं, पाणं, खाइयं, साइयं चेदि। चउव्विहो आहारो से तित्तो वा, कडुओ वा, कसाइलो वा, अमिलो वा, महुरो वा, लवणो वा, अलवणो वा, दुच्चितिओ, दुब्भासिओ, दुप्परिणामिओ, दुस्समिणिओ, रत्तीए भुत्तो, भुजावियो, भुंज्जिजंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।6 ।।

पंचसमिदीओ इरियासमिदी, भासासमिदी, एषणासमिदी, आदाण-णिक्खेवण समिदी, उच्चारपस्सवण खेल-सिंहाणय-वियडि-पइट्ठावणसमिदी चेदि।
तत्थ इरियासमिदी पुव्वुत्तर- दक्खिण – पच्छिम चउदिसि, विदिसासु, विहरमाणेण, जुगंतर-दिठ्ठिणा, भव्वेण दट्ठव्वा। डव-डव-चरियाए, पमाद-दोसेण, पाण-भूद- जीव-सत्ताणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं । ।।7 ।।

तत्थ भासासमिदी कक्कसा, कडुआ, परुसा, णिड्डुरा, परकोहिणी, मज्झंकिसा, अइ माणिणी, अणयंकरा, छेयंकरा, भूयाण – वहंकरा चेदि । दसविहा भासा, भासिया, भासाविया, भासिज्जंतो वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।8।।

तत्थ एसणासमिदी अहाकम्मेण वा, पच्छाकम्मेण वा, पुरा-कम्मेण वा, उद्दिट्ठयडेण वा, णिद्दिट्ठियडेण वा, कीडयडेण वा, साड्या, रसाड्या, सइंगाला, सधूमिया, अइ-गिद्धीए, अग्गीव, छण्हं जीव णिकायाणं, विराहणं, काऊण, अपरिसुद्धं, भिक्खं, अण्णं, पाणं, आहारियं, आहारावियं, आहारिज्जंतं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।9 ।।

तत्थ आदाण-णिक्खेवण समिदी-चक्कलं वा, फलहं वा, पोत्थयं वा, पीढं वा, कमण्डलुं वा, वियडिं वा, मणिं वा, एवमाइयं, उवयरणं, अप्पडिलेहिऊण-गेण्हंतेण वा, ठवंतेण वा, पाण-भूद-जीव-सत्ताणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।10 ।।

तत्थ उच्चार-पस्सवण-खेल-सिंहाणय-वियडिपइट्ठा – विणिया समिदी, रत्तीए वा, वियाले वा, अचक्खुविसए, अवत्थंडिले, अब्भोवयासे, सणिद्धे, सवीए, सहरिए, एवमाइएसु, अप्पासु-गट्ठाणेसु पइट्ठावंतेण, पाण-भूद-जीव- सत्ताणं, उवघादो, कदो वा, कारिदो वा, कीरंतो वा, समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।11 ।।

तिण्णि-गुत्तिओ, मणगुत्तीओ, वचि-गुत्तिओ, काय- गुत्तीओ चेदि । तत्थ मण-गुत्ती, अड्डे झाणे, रुद्दे झाणे, इह लोय-सण्णाए, पर-लोय-सण्णाए, आहार-सण्णाए, भय- सण्णाए, मेहुण-सण्णाए, परिग्गह-सण्णाए, एवमाइयासु जा मण गुत्ती, ण रक्खिया, ण रक्खाविया, ण रक्खिज्जंतं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ॥12॥

तत्थ वचि-गुत्ती, इत्थि-कहाए, अत्थ कहाए, भत्त- कहाए, राय कहाए, चोर-कहाए, वेर-कहाए, परपासंड- कहाए, एवमाइयासु जा वचि-गुत्ती, ण रक्खिया, ण रक्खाविया, ण रक्खिज्जंतं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।13।।

तत्थ काय-गुत्ती चित्त-कम्मेसु वा, पोत्त-कम्मेसु वा, कट्ठ – कम्मेसु वा, लेप्प कम्मेसु वा, लयकम्मेसु वा, एवमाइयासु जा कायगुत्ती, ण रक्खिया, ण रक्खाविया, ण रक्खिज्जंतं वि समणुमण्णिदो तस्स मिच्छा मे दुक्कडं ।।14 ।।

दोसु अट्ट-रुद्द-संकिलेस-परिणामेसु, तीसु अप्पसत्थ- संकिलेस-परिणामेसु, मिच्छाणाण- मिच्छादंसण-मिच्छा चरित्तेसु, चउसु, उवसग्गेसु, चउसु सण्णासु, चउसु पच्चएसु, पंचसु चरित्तेसु छसु जीव-णिकाएसु, छसु आवासएसु, सत्तसु भयेसु, अट्ठसु सुद्धीसु, णवसु बंभचेर-गुत्तीसु, दससु समण- धम्मेसु, दससु धम्मज्झाणेसु, दससु मुण्डेसु, बारसेसु, संजमेसु, बावीसाए परीसहेसु, पणवीसाए, भावणासु, पणवीसाए किरियासु, अट्ठारस-सील-सहस्सेसु, चउरासीदि- गुण-सय-सहस्सेसु, मूलगुणेसु, उत्तर गुणेसु अट्ठमियम्मि अदिक्कमो, वदिक्कमो, अड़चारो, अणाचारो, आभोगो, अणाभोगो जो तं पडिक्कमामि । मए पडिक्कंतं तस्स मे सम्मत्त-मरणं, पंडिय-मरणं, वीरिय-मरणं, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं, समाहि मरणं, जिणगुण-सम्पत्ति होदु मज्झं ।

***********************************************************************************

शांति भक्ति

—————————————

न स्नेहाच्छरणं प्रयान्ति भगवन्! पादद्वयं ते प्रजा,
हेतुस्तत्र विचित्र-दु:ख-निचय:, संसार घोरार्णव:।
अत्यन्त-स्फुरदुग्र – रश्मि -निकर,-व्याकीर्ण-भूमण्डलो,
ग्रैष्म: कारयतीन्दु-पाद-सलिलच्-,छायानुरागं रवि:॥ १॥

क्रुद्धाशीर्विष-दष्ट-दुर्जय-विष,-ज्वालावली विक्रमो,
विद्या-भेषज-मन्त्र-तोय-हवनै-, र्याति प्रशान्तिं यथा।
तद्वत्ते चरणारुणाम्बुज-युगस्, – तोत्रोन्मुखानां नॄणां,
विघ्ना: काय विनायकाश्च सहसा, शाम्यन्त्यहो विस्मय:॥ २॥

सन्तप्तोत्तम – काञ्चन – क्षितिधर, श्रीस्पद्र्धि-गौरद्युते,
पुंसां त्वच्चरणप्रणाम करणात् पीडा: प्रयान्ति क्षयम्।
उद्यद्भास्करविस्फुरत्कर-शत-, व्याघात-निष्कासिता,
नाना देहि विलोचन-द्युतिहरा, शीघ्रं यथा शर्वरी॥ ३॥

त्रैलोक्येश्वर-भङ्ग-लब्ध-विजया, दत्यन्त रौद्रात्मकान्,
नाना जन्म-शतान्तरेषु पुरतो, जीवस्य संसारिण:।
को वा प्रस्खलतीह केन विधिना, कालोग्र-दावानलान्,
न स्याच्चेत्तव पाद-पद्म-युगल-स्तुत्यापगा-वारणम्॥ ४॥

लोकालोक-निरन्तर-प्रवितत-, ज्ञानैक-मूत्र्ते विभो!
नाना – रत्न – पिनद्ध – दण्ड-रुचिर-श्वेतात-पत्रत्रय।
त्वत्पाद-द्वय-पूत-गीत-रवत:, शीघ्रं द्रवन्त्यामया,
दर्पाध्मात्-मृगेन्द्रभीम निनदाद्, वन्या यथा कुञ्जरा:॥ ५॥

दिव्य-स्त्री नयनाभिराम-विपुल, श्रीमेरु-चूडामणे,
भास्वद् बाल दिवाकर-द्युति-हर-, प्राणीष्ट-भाण्डल।
अव्याबाध-मचिन्त्य-सार-मतुलं, त्यक्तोपमं शाश्वतं।
सौख्यं त्वच्चरणारविन्द-युगल-, स्तुत्यैव सम्प्राप्यते॥ ६॥

यावन्नोदयते प्रभा परिकर: श्रीभास्करो भासयंस्,
तावद् धारयतीह पङ्कज-वनं, निद्रातिभार-श्रमम्।
यावत्त्वच्चरणद्वयस्य भगवन्!, न स्यात् प्रसादोदयस् –
तावज्जीव-निकाय एष वहति प्रायेण पापं महत्॥ ७॥

शान्तिं शान्तिजिनेन्द्र-शान्तमनसस् त्वत्पाद-पद्माश्रयात्,
संप्राप्ता: पृथिवी-तलेषु बहव: शान्त्यर्थिन: प्राणिन:।
कारुण्यान् मम भाक्तिकस्य च विभो! दृष्टिं प्रसन्नां कुरु ,
त्वत्पादद्वय-दैवतस्य गदत: शान्त्यष्टकं भक्तित:॥ ८॥

शान्तिजिनं शशि-निर्मल-वक्त्रं,शीलगुण-व्रतसंयमपात्रम्।
अष्टशतार्चित लक्षणगात्रं, नौमि जिनोत्तममम्बुज नेत्रम्॥ ९॥

पञ्चममीप्सित-चक्रधराणां, पूजितमिन्द्र-नरेन्द्रगणैश्च।
शान्तिकरं गणशान्तिमभीप्सु: षोडशतीर्थकरं प्रणमामि॥ १०॥

दिव्यतरु : सुर-पुष्प-सुवृष्टि, – र्दुन्दुभिरासन-योजन-घोषौ।
आतपवारणचामरयुग्मे,यस्य विभाति च मण्डलतेज:॥ ११॥

तं जगदर्चित-शान्ति-जिनेन्द्रं, शान्तिकरं शिरसा प्रणमामि।
सर्वगणाय तु यच्छतु शान्तिं, मह्यमरं पठते परमां च॥ १२॥

येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नै:,
शक्रादिभि: सुरगणै: स्तुत-पादपद्मा:।
ते मे जिना: प्रवर-वंश-जगत्प्रदीपास्,
तीर्थङ्करा: सतत शान्तिकरा भवन्तु॥१३॥

सम्पूजकानां प्रतिपालकानां यतीन्द्र-सामान्य-तपोधनानाम्।
देशस्य राष्ट्रस्य पुरस्य राज्ञ: करोतु शान्तिं भगवान् जिनेन्द्र:॥१४॥

क्षेमं सर्वप्रजानां, प्रभवतु बलवान्, धार्मिको भूमिपाल:,
काले काले च सम्यग्, वितरतु मघवा, व्याध्यो यान्तु नाशम्।
दुर्भिक्षं चोरिमारि:, क्षणमपि जगतां, मास्मभूज्जीव-लोके,
जैनेन्दंर धर्मचक्रं, प्रभवतु सततं, सर्व-सौख्य-प्रदायि॥ १५॥

तद् द्रव्य मव्ययमुदेतु शुभ:स देश:,
संतन्यतां प्रतपतां सततं सकाल:।
भाव: स नन्दतु सदा यद्नुग्रहेण,
रत्नत्रयं प्रतपतीह मुमुक्षुवर्गे॥ १६॥

प्रध्वस्त घाति कर्माण:, केवल-ज्ञानभास्करा: ।
कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वरा:॥ १७॥

अंचलिका
इच्छामि भंते! संतिभत्ति-काउस्सग्गो कओ, तस्सालोचेउं, पञ्च-महा-कल्लाण-संपण्णाणं अट्ठ-महापाडिहेर-सहियाणंचउतीसातिसय-विसेस-संजुत्ताणं, बत्तीस-देवेंद-मणिमय-मउड-मत्थय-महियाणं बलदेव-वासुदेव चक्कहर-रिसि-मुणि-जदि-अणगारोवगूढाणं, थुइ-सय-सहस्स-णिलयाणं,उसहाइ-वीर-पच्छिम-मंगल-महापुरिसाणं णिच्चकालं,अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइगमणं, समाहिमरणं, जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

समाधी भक्ति

—————————————

स्वात्माभिमुख-संवित्ति, लक्षणं श्रुत-चक्षुषा।
पश्यन्पश्यामि देव त्वां केवलज्ञान-चक्षुषा॥
शास्त्राभ्यासो, जिनपति-नुति: सङ्गति सर्वदार्यै:।
सद्वृत्तानां,गुणगण-कथा,दोषवादे च मौनम्॥ १॥

सर्वस्यापि प्रिय-हित-वचो भावना चात्मतत्त्वे।
संपद्यन्तां, मम भव-भवे यावदेतेऽपवर्ग:॥ २॥

जैनमार्ग-रुचिरन्यमार्ग निर्वेगता, जिनगुण-स्तुतौ मति:।
निष्कलंक विमलोक्ति भावना: संभवन्तु मम जन्मजन्मनि॥ ३॥

गुरुमूले यति-निचिते, – चैत्यसिद्धान्त वार्धिसद्घोषे।
मम भवतु जन्मजन्मनि,सन्यसनसमन्वितं मरणम्॥ ४॥

जन्म जन्म कृतं पापं, जन्मकोटि समार्जितम्।
जन्म मृत्यु जरा मूलं, हन्यते जिनवन्दनात्॥ ५॥

आबाल्याज्जिनदेवदेव! भवत:, श्रीपादयो: सेवया,
सेवासक्त-विनेयकल्प-लतया,कालोऽद्यया-वद्गत:।
त्वां तस्या: फलमर्थये तदधुना, प्राणप्रयाणक्षणे,
त्वन्नाम-प्रतिबद्ध-वर्णपठने,कण्ठोऽस्त्व-कुण्ठो मम॥ ६॥

तवपादौ मम हृदये, मम हृदयं तव पदद्वये लीनम्।
तिष्ठतु जिनेन्द्र! तावद् यावन्निर्वाण-संप्राप्ति:॥ ७॥

एकापि समर्थेयं, जिनभक्ति र्दुर्गतिं निवारयितुम्।
पुण्यानि च पूरयितुं, दातुं मुक्तिश्रियं कृतिन:॥ ८॥

पञ्च अरिंजयणामे पञ्च य मदि-सायरे जिणे वंदे।
पञ्च जसोयरणामे, पञ्च य सीमंदरे वंदे॥ ९॥

रयणत्तयं च वन्दे, चउवीस जिणे च सव्वदा वन्दे।
पञ्चगुरूणां वन्दे, चारणचरणं सदा वन्दे॥ १०॥

अर्हमित्यक्षरं ब्रह्म, – वाचकं परमेष्ठिन:।
सिद्धचक्रस्य सद्बीजं, सर्वत: प्रणिदध्महे॥ ११॥

कर्माष्टक-विनिर्मुक्तं, मोक्षलक्ष्मी-निकेतनम्।
सम्यक्त्वादि गुणोपेतं, सिद्धचक्रं नमाम्यहम्॥ १२॥

आकृष्टिं सुरसम्पदां विदधते, मुक्तिश्रियो वश्यता-,
मुच्चाटं विपदां चतुर्गतिभुवां विद्वेषमात्मैनसाम्।
स्तम्भं दुर्गमनं प्रति-प्रयततो, मोहस्य सम्मोहनम्,
पायात्पञ्च-नमस्क्रियाक्षरमयी,साराधना देवता॥ १३॥

अनन्तानन्त संसार, – संततिच्छेद-कारणम्।
जिनराज-पदाम्भोज, स्मरणं शरणं मम॥ १४॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम।
तस्मात् कारुण्यभावेन रक्ष रक्ष जिनेश्वर!॥ १५॥

नहित्राता नहित्राता नहित्राता जगत्त्रये।
वीतरागात्परो देवो, न भूतो न भविष्यति॥ १६॥

जिनेभक्ति-र्जिनेभक्ति-, र्जिनेभक्ति-र्दिने दिने।
सदा मेऽस्तु सदा मेऽस्तु, सदा मेऽस्तु भवे भवे॥ १७॥

याचेऽहं याचेऽहं, जिन! तव चरणारविन्दयोर्भक्तिम्।
याचेऽहं याचेऽहं, पुनरपि तामेव तामेव॥ १८॥

विघ्नौघा: प्रलयं यान्ति, शाकिनी-भूत पन्नगा:।
विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ॥१९॥

अंचलिका

इच्छामि भंते! समाहिभत्ति काउस्सग्गो कओ, तस्सालोचेउं, रयणत्तय-सरूवपरमप्पज्झाणलक्खणं समाहि-भत्तीये णिच्चकालं अंचेमि, पूजेमि, वंदामि, णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाओ, सुगइ-गमणं समाहि-मरणं जिणगुण-संपत्ति होउ मज्झं।

***********************************************************************************

Scroll to Top